कक्षा दशमी कार्य-पत्रं-पाठः-सौहार्दं प्रकृतेः शोभा
कार्य-पत्रम्
कक्षा-दशमी
पाठः-- सौहार्दं प्रकृतेः शोभा
गद्यांशं पठित्वा प्रश्नान् उत्तरत
वनस्य दृश्यं समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रित कलरवं कुर्वन्ति।
निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति
.एकपदेनउत्तरत -------
i सुखेन कः विश्राम्यते ?
………………………………..
ii वनस्य समीपे का वहति ?
…………………………………………
iii सिंहस्य पुच्छं कःधुनाति ?
…………………………………………
ivकलरवं के कुर्वन्ति ?
……………………………………….
2.पूर्णवाक्येनउत्तरत----------
I वानरः सिंहस्य कर्णमाकृष्य कुत्र आरोहति ?
……………………………………………………………..
ii
क्रुद्धः सिंहःकिं करोति ?
……………………………………………..
3.प्रदतविकल्पेभ्य:उचितम्उत्तरंचित्वालिखत-----
I. गद्यांशे ‘’विलोक्य’’इति अर्थे किं समानार्थकपदं प्रयुक्तम्:” ?.......................
(क) आगत्य (ख) आकृष्य (ग) दृष्ट्वा
''पक्षिणः’’ इति पदस्य क्रियापदं किम्?.................................................
(क) धुनाति (ख) कुर्वन्ति (ग) तुदन्ति
iii “ गत्वा ”इत्यस्य पदस्य कःविपर्यय: श्लोके प्रयुक्तः ?........................................
(क)
आकृष्य (ख) आगत्य (ग) कूर्दित्वा
iv
“एवमेव वानराः वारं वारं सिंहं तुदन्ति।”अस्मिन्
वाक्ये कर्तृपदं किम् ?.............
(क)
वानराः (ख) सिंह: (ग) तुदन्ति
उत्तराणि----1.एकपदेनउत्तरत -------
i. सिंहः ii नदी iii वानरः ivपक्षिणः
.
2.पूर्णवाक्येनउत्तरत----------
I वानरः सिंहस्य कर्णमाकृष्य वृक्षं आरोहति |
ii
क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव
तिष्ठति।
3.प्रदतविकल्पेभ्य:उचितम्उत्तरंचित्वालिखत-----
I. गद्यांशे ‘’विलोक्य’’इति अर्थे किं समानार्थकपदं प्रयुक्तम्:” ?----- दृष्ट्वा
ii श्लोके “पक्षिणः’’ इति पदस्य क्रियापदं किम्?---------------- कुर्वन्ति
iii “ गत्वा ”इत्यस्य पदस्य कःविपर्यय: श्लोके प्रयुक्तः ?----------आगत्य
iv
“एवमेव वानराः वारं वारं सिंहं तुदन्ति।”अस्मिन्
वाक्ये कर्तृपदं किम-वानराः



Comments
Post a Comment